SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ - योगशास्त्रे यदाह यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु पतिथसि पतिष्यसि ॥ १ ॥ सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥ २ ॥ ॥ इति च ॥८॥ तथा माता जननी पिता जनकम्तयोः पूजकस्त्रिसन्ध्यं प्रणामकरणन परलोकहितानुष्ठाननियोजनेन सकलव्यापारेषु तदाजया प्रवृत्त्या वर्णगन्धादिप्रधानस्य पुष्यफलादिवस्तुन उपढौकनेन तद्भोगे भोगेन चात्रादीनामन्यत्र तदनुचितादिति माता च पिता च मातापितरौ “आइन्हे" ॥ ३ । २ । ३८ ॥ इत्यात्वं मातुश्चाभ्यर्हितत्वात्पूर्वनिपातः । यन्मनुः उपाध्याया दशाचार्य आचार्याणां शतं पिता। सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥ १ ॥ ८ ॥ . तथा त्यजन् परिहरन् उपप्लुतं स्वचक्रपरचक्रविरोधाहुर्भिक्षमारीतिजनविरोधादेश्वावस्थीभूतं यत् स्थान प्रामनगरादि । अत्यज्यमाने हि तस्मिन् धम्मार्थकामानां पूर्वार्जितानां विनाशन नवानां चानुपार्जनेनोभयलोकभ्रंश एव स्यात् ॥ १० ॥ तथा गर्हितं देशजातिकुलापेक्षया निन्दितं कर्म तत्राप्रवृत्तः । देशगर्हितं यथा सौवीरेषु कषिकर्म । लाटेषु मद्यसन्धानम् ।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy