________________
प्रथमः प्रकाशः।
१४८
तथा अनेक बहु यनिर्गमहारं उपलक्षणत्वात्तदेव च प्रवेशद्वार तेन विवर्जितं निकेतनं यस्य स तथा । बहुषु हि निर्गमप्रवेशद्वारेष्वनुपलक्ष्यमाणनिर्गमप्रवेशानां दुष्टलोकानामापाते स्त्रीद्रविणादिविप्लव: स्यात् । अत्र चानक हारतायाः प्रतिषेधेन विधिराक्षिप्यते । तत: प्रतिनियतहारसुरक्षितग्रहो गृहस्थ: स्यादिति लभ्यते । तथाविधमपि निकेतनं स्थान एव निवेशयितुं युक्तं नास्थाने । स्थानं तु शल्यादिदोषरहितं बहुलदूर्वाप्रवालकुशस्तम्बप्रशस्तवर्ण गन्धमृत्तिकासुस्वादुजलोहमनिधानादिमच्च । स्थानगुणदोषपरिज्ञानं च शकुनस्वप्नोपश्रुतिप्रभृतिनिमित्तादिबलेन । स्थानमेव विशिनष्टि । अतिव्यक्तमतिप्रकटमतिगुप्तमतिप्रच्छन्न तनिषेधादनतिव्यक्त गुप्तम् । तत्र अतिव्यक्ते ह्यसन्निहितगृहान्तरतया परिपार्वतो निरावरणतया चौरादयोऽभिभवेयुः। अतिगुप्ते च सर्वतो गृहान्तनिरुवत्वान्न स्वशोभां लभते। प्रदीपनकाद्युपद्रवेषु च दुःखनिगमप्रवेशं गृहं भवति । पुनः कथंभूते स्थाने सुप्रातिवेश्मिके शोभनाः शोलादिसम्पन्नाः प्रातिवेश्मिका यत्र । कुशीलप्रातिवेश्मिकत्वे हि तदालापश्रवणतच्चेष्टादर्शनादिवशात् स्वतः सगुणस्यापि गुणहानि: स्यात् । दुष्पातिवेश्मिकास्त्वेते शास्त्रप्रतिषिद्धाः
खरियातिरिक्वजोणोतालायरसमणमाहणसुसाणा। वग्गु रिप्रवाहगुम्मियहरिएसपुलिंदमच्छंधा ॥ १ ॥ ७ ॥ तथा कतः सङ्गो येन स कृतसङ्गः सन् शोभन आचार इहपरलोकहिता प्रवृत्तिर्येषां ते सदाचारास्तैनं तु कितवधूतविटभट्टभण्डनटादिभिस्तत्सङ्गे हि सदपि शीलं विलीयेत ।