________________
१५४
__ योगशास्त्रे साधी टन् तेन लोल्यपरिहारेण यथाग्निबलं मितं भुञ्जौत । अतिरिक्तभोजनं हि वमनविरेचनमरणादिना न साधु भवति यो हि मितं भुङ्क्ते स बहु भुङ्क्ते । अक्षुधितेन ह्यमृतमपि मुक्तं भवति विषम् । तथा क्षुल्कालातिक्रमादब्रद्देषो देहसादन भवति। विध्यातेऽग्नौ किं नामेन्धनं कुर्यादिति ।
पानाहारादयो यस्याविरुद्धाः प्रकृतेरपि । मुखिवायावकल्पन्ते तत्मात्मामिति गीयते ॥ १ ॥ एवं लक्षणासात्मयात् आजन्म सामान भुक्तं विषमपि पथ्यं भवति। परमसात्मामपि पथ्यं सेवेत न पुनः सात्माप्राप्तमप्यपथ्यम् । सर्वं बलवतः पथ्यमिति मत्वा न कालकूटं खादेत् । सुशिक्षितोऽपि विषतन्त्र जो नियत एव कदाचिहिषात् ॥ १७ ॥ - तथा त्रिवर्गो धर्मार्थकामस्तत्र यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । यतः सर्वप्रयोजनसिद्धिः सोऽर्थः। यत आभिमानिकरसानुविधा सर्वेन्द्रियप्रीतिः स कामः। ततोऽन्योऽन्यस्य परस्परं योऽप्रतिबन्धोऽनुपघातस्तेन त्रिवर्गमपि नत्वे कैकं साधयेत् । यदाह
यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च ।
स लोहकारभस्त्रेव श्वसनपि न जीवति ॥ १ ॥ तत्र धर्मार्थयोरुपघातेन तादाविक विषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम् । न च तस्य धनं धमः शरीरं वा यस्य कामेऽत्यन्तासक्तिः । धर्मकामातिक्रमानमुपाजितं परेऽनुभवन्ति स्वयं तु परं पापस्य भाजनं सिंह इव