________________
प्रथम: प्रकाश: ।
१५५ सिन्धुरवधात् । अर्थकामातिक्रमेण च धम्मसेवा यतीनामेव धर्मो न एहस्थानाम् । न च धर्मबाधयाऽर्थकामौ सेवेत । बीजभोजिन: कुटुम्बिन इव नास्त्य धार्मिकस्यायत्यां किमपि कल्याणम् । स खलु सुखी योऽमुत्र सुखाविरोधेन इहलोकसुखमनुभवति। एवमर्थबाधया धर्मकामौ सेवमानस्य ऋणाधिकत्वम् । कामबाधया धर्मार्थों सेवमानस्य गार्हस्थ्याभावः स्यात् ।
एवं च तादात्विकमूलहरकदर्येषु धर्मार्थकामानामन्योऽन्यबाधा सुलभैव । तथाहि
यः किमप्यसञ्चिन्त्योत्पन्नमर्थमपव्येति स तादात्विकः। यः पिटपैतामहमर्थमन्यायेन भक्षयति स मूलहरः । यो भृत्यात्म पोडाभ्यामर्थ सञ्चिनोति न तु क्वचिदपि व्ययते स कदयः। तत्र तादात्विकमूलहरयोरर्थभ्रंशेन धर्मकामयोर्विनाशानास्ति कल्याणं कदर्यस्य त्वऽर्थसंग्रहो राजदायादतस्कराणां निधिनतु धर्मकामयोर्हेतुरिति । अनेन च त्रिवर्गबाधा गृहस्थस्य कर्तुमनुचितेति प्रतिपादितम् । यदा तु दैववशाबाधा सम्भवति । तदोत्तरोत्तरबाधायां पूर्वस्य पूर्वस्य बाधा रक्षणीया।
तथाहि
कामबाधायां धर्मार्थयोर्बाधा रक्षणीया तयोः सतोः कामस्य सुकरोत्पादकत्वात् । कामार्थयोस्तु बाधायां धर्मो रक्षणीयः धर्ममूलत्वादर्थकामयोः ।