________________
१५६
योगशास्त्रे -
उत्ताञ्च
धर्मश्चेन्नावसौदेत कपालेनापि जीवतः ।
आव्योऽस्मीत्यवगन्तव्यं धर्मवित्ता हि साधवः ॥ १ ॥ १८ ॥ तथा न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादिदिनविभागो यस्य सोऽतिथिः । यथोक्तम्
तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना ।
अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥ १॥ . साधुः शिष्टाचाररत: सकललोकाऽवगीतः । दौनो दौड्च् क्षय इति वचनात् क्षीणसकलधम्मार्थकामाराधनशक्तिः तेषु प्रतिपत्तिक्कत् प्रतिपत्तिरुपचारोऽन्नपानादिरूपः। कथं यथावत् औचित्यानतिक्रमेण । यदाह
औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥ १ ॥ १८ ॥ तथा अनभिनिविष्टोऽभिनिवेशरहितः । अभिनिवेशश्च नौतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्यारम्भः । स च नीचानां भवति। यदाह
दप्पः श्रमयति नीचानिष्फलनयविगुणदुष्करारम्भैः । श्रोतोविलोमतरण व्यसनिभिरायास्यते मत्स्यैः ॥ १ ॥