SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५७ अनभिनिविष्टत्त्वं च कादाचित्कं शाठ्यात्रीचानामपि सम्भव त्यत आह । सदेति ॥ २० ॥ तथा गुणेषु सौजन्यौदार्य दाचिण्य स्थैर्य प्रियपूर्व प्रथमाभिभाषगणादिषु स्वपरयोरुपकारकारणेष्वात्मधर्मेषु पक्षपाती । पक्षपातखु बहुमानतप्रशंसा साहाय्यकरणादिना अनुकूला प्रवृत्तिः । गुणपक्षपातिनो हि जीवा प्रवन्ध्यपुण्यबोजनिषेके मेहामुत्र च गुणग्रामसम्पदमारोहन्ति ॥ २१ ॥ तथा प्रतिषिद्धो देशोऽदेशः प्रतिषिद्धः कालोऽकालः तयोरदेशाकालयोश्चर्या चरणं तां त्यजन् परिहरन् प्रदेशकालचारी हि चौरादिभ्योऽवश्यमुपद्रवमाप्नोति ॥ २२ ॥ तथा जानन् विदन् बलं शक्तिं स्वस्य परस्य वा द्रव्यक्षेत्रकालभावकृतं सामर्थ्यम् । अबलमपि तथैव बलाबलपरिज्ञाने हि सर्वः सफल आरम्भः अन्यथा तु विपर्ययः । प्रथमः प्रकाशः । यदाह - स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् । अयथाबलमारम्भो निदानं चयसम्पदः ॥ १ ॥ इति ॥ २३ ॥ तथा वृत्तमनाचारपरिहारः सम्यगाचारपरिपालनं च । तव तिष्ठन्तीति वृत्तस्था: । ज्ञानं हेयोपादेय वस्तु विनिश्चयस्तेन वृडा महान्तः । वृत्तस्थाश्च ते ज्ञानवृद्धाश्च तेषां पूजकः । पूजा च सेवाजल्यास नाभ्युत्थानादिलक्षणा | वृत्तस्थज्ञानवन्तो हि पूज्यमाना नियमात्कल्पतरव इव सदुपदेशादिफलैः फलन्ति ॥ २४ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy