SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १५८ . योगशास्त्रे - .: तथा पोथा अवश्यभर्त्तव्या माटपिटग्रहिण्यपत्यादयस्तान् योगक्षेमकरणन पोषयतीति पोषकः ॥ २५ ॥ .: तथा दीर्घकालभावित्वाहीर्घमर्थमनर्थं च पश्यति पर्यालोचयतीत्येवंशीलो दीर्घदर्शी ॥ २६ ॥ ..., तथा वस्त्ववस्तुनोः कत्याकत्ययोः स्वपरयोर्विशेषमन्तरं जानाति निश्चिनोतीति विशेषज्ञः । अविशेषज्ञो हि पुरुष: पशो तिरिच्यते । अथवा विशेषमात्मन एव गुणदोषाधिरोहलक्षणं जानातीति विशेषज्ञः । ...... । . यदाह- .. ... प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥ १ ॥ २७॥ तथा कृतं परोपकतं जानाति न निगुते कृतज्ञः एवं हि तस्य कुशललाभो यदुपकारकारिणो बहु मन्यते कृतघ्नस्य तु निष्कृतिरेव नास्ति । यदाह कतने नास्ति निष्कृतिरिति ॥ २८ ॥ तथा लोकानां विशिष्ट जनानां विनयादिगुणैवल्लभः प्रियः । को हि गुणवतः प्रति प्रोतो न भवति । यस्तु न लोकवल्लभः स न केवलमात्मानं स्वस्य धर्मानुष्ठानमपि परैर्दूषयन् परेषां बोधिलाभ_शहेतुर्भवति ॥ २८ ॥ तथा लज्जा वैयात्याभावः सह लज्जया सलज्जः । लज्जावान् हि प्राणप्रहाणऽषि न प्रतिज्ञातमपजहाति ।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy