SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ११२ योगशास्त्रे सोऽप्रमत्तसंयतो यः संयमी न प्रमाद्यति । उभावपि परावृत्या स्यातामान्तर्मुहर्तिकौ ॥ ३४ ॥ कर्मणां स्थितिघातादीनपूर्वान् कुरुते यतः । तस्मादपूर्वकरण: क्षपकः शमकश्च सः ॥ ३५ ॥ यहादरकषायाणां प्रविष्टानामिमं मिथः । परिणामा निवर्तन्ते निवृत्तिबादरोऽपि तत् ॥ ३६ ॥ परिणामा निवर्तन्ते मिथो यत्र न यत्नतः । अनिवृत्तिबादरः स्यात्क्षपक: शमकश्च सः ॥ ३७॥ लोभाभिधः सम्परायः सूक्ष्मः किट्टीकतो यतः । स सूक्ष्मसम्पराय: स्यात्क्षपकः शमकोऽपि च ॥ ३८ ॥ अथोपशान्तमोहः स्यान्मोहस्योपशमे सति। मोहस्य तु क्षये जाते क्षीणमोहं प्रचक्षते ॥ ३८ ॥ सयोगिकेवली घातिक्षयादुत्पत्रकेवलः । योगानां तु क्षये जाते स एवायोगिकेवली ॥ ४० ॥ .. ॥ इति जीवतत्त्वम् ॥ अजीवाः स्यर्धम्माधम्मविहायःकालपुहलाः । जीवेन सह पञ्चापि ट्रव्याख्येते निवेदिताः ॥ ४१ ॥ तत्र कालं विना सर्वे प्रदेशप्रचयात्मकाः । विना जीवमचिद्रूपा अकरिश्च ते मताः ॥ ४२ ॥ कालं विनास्तिकायाः स्युरमूर्ताः पुद्गलं विना । उत्पादविगमध्रौव्यात्मानः सर्वेऽपि ते पुनः ॥ ४३ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy