SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः। ११३ पुद्गलाः स्युः स्पर्शरसगन्धवर्णस्वरूपिणः । सेऽणस्कन्धतया हेधा तनाऽबद्धा: किलाणवः ॥ ४४ ॥ बडाः स्कन्धा गन्धशब्दसौक्ष्मास्थौल्याकृतिस्मृशः । अन्धकारातपोद्योतभेदच्छायामका अपि ॥ ४५ ॥ कर्मकायमनोभाषाचेष्टितोच्छासदायिनः । सुखदुःखजीवितव्यमृत्यूपग्रहकारिणः ॥ ४६ ॥ प्रत्येकमेकद्रव्याणि धम्माधर्मी नभोऽपि च । अमूर्त्तानि निष्क्रियाणि स्थिराण्यपि च सर्वदा ॥ ४७ ॥ एकजीवपरीमाणसंख्यातीतप्रदेशको । लोकाकाशमभिव्याप्य धमाधम्र्मों व्यवस्थितौ ॥ ४८ ॥ स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वतः । सहकारी भवेद्धम्मः पानीयमिव यादसाम् ॥ ४८ ॥ जीवानां पुगलानां च प्रपन्नानां स्वयं स्थितिम् । अधर्म: 'सहकार्येष यथा च्छायाऽध्वयायिनाम् ॥ ५० ॥ सर्वगं स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकालोको स्थितं व्याप्य तदनन्तप्रदेशभाक् ॥ ५१ ॥ लोकाकाशप्रदेशस्था भिन्नाः कालाणवस्तु ये । भावानां परिवर्ताय मुख्यः कालः स उच्यते ॥ ५२ ॥ ज्योतिःशास्त्रे यस्य मानमुच्यते समयादिकम् । स व्यावहारिकः कालः कालवेदिभिरामतः ॥ ५३ ॥ (१) क ग सहकार्येषु ।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy