SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ११४ योगशास्त्रे नवजीर्णादिरूपेण यदमी भुवनोदरे । पदार्थाः परिवर्त्तन्ते तत्कालस्यैव चेष्टितम् ॥ ५४ ॥ वर्त्तमाना अतीतत्वं भाविनो वर्त्तमानताम् । पदार्थाः प्रतिपद्यन्ते कालक्रीडाविडम्बिताः ॥ ५५ ॥ ॥ इति अजीवतत्त्वम् ॥ मनोवचनकायानां यत्स्यात्कम् स आश्रवः । शुभ: शुभस्य हेतुः स्यादशुभस्त्वशुभस्य च ॥ ५६ ॥ ॥ इति श्रवः ॥ सर्वेषामास्रवाणां यो रोधहेतुः स संवरः । कर्मणां भवहेतूनां जरणादिह निर्जरा ॥ ५७ ॥ ॥ इति संवरनिर्जरे ॥ वक्ष्यन्ते भावनास्खेवास्त्रवसंवरनिर्जराः । तन्नात्र विस्तरेणोक्ताः पुनरुक्तत्वभौरुभिः ॥ ५८ ॥ सकषायतया जीवः कर्मयोग्यांस्तु पुद्गलान् । यदादत्ते स बन्धः स्याज्जीवास्वातन्त्र्यकारणम् ॥ ५८ ॥ प्रकृतिस्थित्यनुभागप्रदेशा विधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्यात् ज्ञानावृत्त्यादिरष्टधा ॥ ६० ॥ ज्ञानदृष्ट्यावृतो वेद्यं मोहनीयायुषी अपि । नामगोत्रान्तरायाश्च मूलप्रकृतयो मताः ॥ ६१ ॥ निकर्षोत्कर्षतः कालनियमः कमणां स्थितिः । अनुभागो विपाकः स्यात्प्रदेशोऽशप्रकल्पनम् ॥ ६२ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy