________________
प्रथमः प्रकाशः।
११५
मिथ्यादृष्टिरविरतिप्रमादौ च क्रुदादयः । योगेन सह पञ्चैते विज्ञेया बन्धहेतवः ॥ ६३ ॥
॥ इति बन्धतत्त्वम् ॥
अभावे बन्धहेतूनां घातिकम्मक्षयोद्भवे । केवले सति मोक्ष: स्याच्छेषाणां कम्मणां क्षये ॥ ६४ ॥ सुरासुरनरेन्द्राणां यत्सुखं भुवनत्रये । स स्यादनन्तभागोऽपि न मोक्षसुखसम्पदः ॥ ६५ ॥ स्वस्वभावजमत्यक्षं यदस्मिन् शाखतं सुखम् । चतुर्वर्गाग्रणीत्वेन तेन मोक्षः प्रकीर्तितः ॥ ६६ ॥
. ॥ इति मोक्षतत्त्वम् ॥ मतिश्रुतावधिमन:पर्यायाः केवलं तथा । अमीभिः सान्वयैर्भेदैर्ज्ञानं पञ्चविधं मतम् ॥ ६७ ॥ अवग्रहादिभिभिन्न बह्वाद्यैरितरैरपि । इन्द्रियानिन्द्रियभबं मतिज्ञानमुदीरितम् ॥ ६८ ॥ विस्तृतं बहुधा पूर्वैरङ्गोपाङ्गः प्रकीर्णकैः । स्याच्छब्दलाञ्छितं जेयं श्रुतज्ञानमनेकधा ॥ ६८ ॥ देवनैरयिकाणां स्यादवधिर्भवसम्भवः । षड्विकल्पस्तु शेषाणां क्षयोपशमलक्षणः ॥ ७० ॥ ऋजुर्विपुल इत्येवं स्यान्मनःपर्ययो विधा । विशुद्यप्रतिपाताभ्यां तद्विशेषोऽवगम्यताम् ॥ ७१ ॥