________________
११६
योगशास्
अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं 'केवलज्ञानमुच्यते ॥ ७२ ॥ एवं च पञ्चभिर्ज्ञानैर्ज्ञाततत्त्व समुच्चयः । अपवर्गहेतो रत्नत्रयस्याद्याङ्गभाग्भवेत् ॥ ७३ ॥ भवविट पिस मूलोलने मत्तदन्तो जडिमतिमिरनाशे पद्मिनीप्राणनाथः ।
नयनमपरमेतद्दिश्वतत्त्वप्रकाशे ।
करणहरिणबन्धे वागुरा ज्ञानमेव ॥ ७४ ॥ १६ ॥
द्वितीयं रत्नमाह -
रुचिर्जिनोक्ततत्त्वेषु सम्यक् श्रद्धानमुच्यते । जायते तन्निसर्गेण गुरोरधिगमेन वा ॥ १७ ॥ जिनोक्तेषु तत्त्वेषु जीवादिषूक्तस्वरूपेषु या रुचिस्तत् श्रद्धानम् । नहि ज्ञानमित्येव रुचिं विना फलसिद्धिः । शाकान्रादिस्वरूपवेदिनाऽपि रुचिरहितेन न सौहित्यलक्षणं फलमवाप्यते । श्रुतज्ञानवतोऽप्यङ्गारमर्दकादेरभव्यस्य दूरभव्यस्य वा जिनोक्ततत्त्वेषु रुचिरहितस्य न विवक्षितं फलमुपश्रूयते । तस्य चोत्पादे यो गति: निसर्गोऽधिगमञ्च | निसर्गः स्वभावो गुरूपदेशादिनिरपेक्षः सम्यक् श्रद्धानकारणम् ।
(१) ख छ केवलं ज्ञानम् ।