________________
११७
प्रथमः प्रकाशः ।
__ ११७ तथाहि
अनाद्यनन्तसंसारावर्त्तवत्तिषु देहिषु । 'ज्ञानदृष्ट्यावृतिवेदनीयान्तरायकम्मणाम् ॥ १ ॥ सागरोपमकोटीनां कोट्यस्त्रिंशत्परा स्थितिः । विंशतिर्गौवनानोश्च मोहनीयस्य सप्ततिः ॥ २ ॥ ततो गिरिसरिद्रावघोलनान्यायतः खयम् । एकाब्धिकोटिकोट्यूना प्रत्येक क्षीयते स्थितिः ॥ ३ ॥ शेषाब्धिकोटिकोट्यन्त:स्थिती सकलजन्मिनः । यथाप्रवृत्तिकरणाग्रन्थिदेशं समिति ॥ ४ ॥ रागहेषपरीणामो दुर्भेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतर: काष्ठादेरिव सर्वदा ॥ ५ ॥ ग्रन्थिदेशं तु संप्राप्ता रागादिप्रेरिताः पुनः । उत्कृष्टबन्धयोग्याः स्युश्चतुर्गतिजुषोऽपि ते ॥ ६ ॥ तेषां मध्ये तु ये भव्या भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरण कते ॥ ७ ॥ अतिक्रामन्ति सहसा तं ग्रन्थिं दुरतिक्रमम् । अतिक्रान्तमहाध्वानो घट्टभूमिमिवाध्वगाः ॥ ८॥ अथानिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलीकुर्युवेदनीयं यदग्रतः ॥ ८ ॥
(१) क छ ज्ञानज्यादतिवेद्याभिधान्तरायकर्मणाम् ।