________________
योगशास्त्रे
आन्तर्मुहूर्तिकं सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं सम्यश्रद्धानमुच्यते ॥ १० ॥ गुरूपदेशमालम्बा सर्वेषामपि देहिनाम् । यत्तु सम्यश्रद्धानं तत्स्यादधिगमजं परम् ॥ ११ ॥ यमप्रशमजीवातुर्बीजं ज्ञानचारित्रयोः । हेतुस्तपःश्रुतादीनां सद्दर्शनमुदीरितम् ॥ १२ ॥ श्लाघ्यं हि चरणज्ञानवियुक्तमपि दर्शनम् । न पुन नचारित्रे मिथ्यात्वविषदूषित ॥ १३ ॥ ज्ञानचारित्रहीनोऽपि श्रूयते श्रेणिकः किल । सम्यग्दर्शनमाहात्मयात्तीर्थकत्वं प्रपत्स्यते ॥ १४ ॥ अकृतचरणबोधा: प्राणिनो यत्प्रभावादसमसुखनिधानं मोक्षमासादयन्ति । भवजलनिधिपोतं दुःखकान्तारदावम् । श्रयत तदिह सम्यग्दर्शनं रत्नमेकम् ॥ १५ ॥ १७ ॥
हतीयं रत्नमाहसर्वसावद्ययोगानां त्यागश्चारित्रमिष्यते ।
कीर्तितं तदहिंसादिवतभेदेन पञ्चधा ॥ १८ ॥ सर्वे न तु कतिपये ये सावद्ययोगाः सपापव्यापारास्तेषां त्यागो ज्ञानश्रद्धानपूर्वकं परिहारः स सम्यक्चारित्रं ज्ञानदर्शनं विना कृतस्य चारित्रस्य सम्यक्चारित्रत्वानुपपत्तेः। सर्वग्रहणं देशचारित्रव्यवच्छेदार्थम् । इदं च चारित्रं मूलोत्तरगुण देन