________________
प्रथमः प्रकाशः।
१११ एवं लक्षाणि योनीनामशौतिश्चतुरुत्तरा। सर्वज्ञोपन्जमुक्तानि सर्वेषामपि जन्मिनाम् ॥ २३ ॥ एकाक्षा बादराः सूक्ष्मा: पञ्चाक्षाः संज्ञासंजिनः । स्युईित्रिचतुरक्षाश्च पर्याप्ता इतरेऽपि च ॥ २४ ॥ एतानि जीवस्थानानि जिनोक्तानि चतुर्दश। मार्गणा अपि तावत्यो ज्ञेयास्ता नामतो यथा ॥ २५ ॥ गतोन्द्रियवपुर्योगवेद ज्ञानक्रुदादयः। ... संयमाहारदृग्लेश्याभव्यसम्यक्त्वसंजिनः ॥ २६ ॥ मिथ्यादृष्टिः सास्वादनसम्यग्मिथ्यादृशावपि । अविरतसम्यग्दृष्टिविरताविरतोऽपि च ॥ २७ ॥ . प्रमत्तश्चाप्रमत्तश्च निवृत्तिबादरस्ततः । अनिवृत्तिबादरश्चाथ सूक्ष्मसंपरायकः ॥ २८ ॥ तत: प्रशान्तमोहश्च क्षीणमोहश्च योगवान् । अयोगवानिति गुणस्थानानि स्युश्चतुर्दश ॥ २८ ॥ मिथ्यादृष्टिर्भवेन्मिथ्यादर्शनस्योदये सति । गुणस्थानत्वमेतस्य भद्रकत्वाद्यपेक्षया ॥ ३० ॥ मिथ्यात्वस्यानुदयेऽनन्तानुबन्ध्युदये सति । । सास्वादन: सम्यग्दृष्टिः स्यादुल्कर्षात् षडावलीः ॥ ३१ ॥ सम्यक्त्वमिथ्यात्वयोगान्मुहूर्त मिश्रदर्शनः । अविरतसम्यग्दृष्टिरप्रत्याख्यानकोदये ॥ ३२ ॥ . विरताविरतस्तु स्यात्प्रत्याख्यानोदये सति। प्रमत्तसंयतः प्राप्तसंयमो य: प्रमाद्यति ॥ ३३ ॥ .