SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ११० योगशास्त्र तिर्यग्योनिभवाः शेषा जलस्थलखचारिणः । नारका 'मानवा देवाः सर्वे पञ्चेन्द्रिया मताः ॥ १४ ॥ मनोभाषाकायबलत्रयमिन्द्रियपञ्चकम् । आयुरुच्छासनिःश्वासमिति प्राणा दश स्मृताः ॥ १५ ॥ सर्वजीवेषु देहायुरुच्छासा इन्द्रियाणि च ।। विकलासंजिनां भाषा पूर्णानां संजिनां मनः ॥ १६ ॥ उपपादभवा देवा नारका गर्भजाः पुन: । जरायुपोताण्डभवाः शेषाः सम्मूछनोद्भवाः ॥ १७ ॥ सम्मछिनो नारकाच जीवा: पापा नपुंसकाः । देवास्तु स्त्रीपुंवेदाः स्युर्वेदत्रयजुषः परे ॥ १८ ॥ सर्वे जीवा व्यवहार्यव्यवहारितया विधा। सूक्ष्मनिगोदा एवान्त्या स्तेभ्योऽन्ये व्यवहारिणः ॥ १८ ॥ सचित्तः संवृत्तः शीतस्तदन्यो मिश्रितोऽपि वा। विभेदैरान्तरैभित्रो नवधा योनिरङ्गिनाम् ॥ २० ॥ प्रत्येक सप्तलक्षाणि पृथ्वीवार्यग्निवायुषु । प्रत्येकानन्तकायेषु क्रमाद्दश चतुर्दश ॥ २१ ॥ षट् पुनर्विकलाक्षेषु मनुष्थेषु चतुर्दश । स्युश्चतम्रश्चतस्रश्च खम्भ्रतियक्सुरेषु तु ॥ २२ ॥ (१) क छ मनुजाः । (२) क ख छ देवनारकाः। (३) ख ग च देवाः स्त्रीपुंसवेदाः । (४) ख ग छ तेऽन्येऽपि व्यवहारिणः ।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy