________________
प्रथमः प्रकाशः ।
मुक्ता एकस्वभावाः स्युर्जन्मादिक्लेशवर्जिताः । अनन्तदर्शनज्ञानवीर्यानन्दमयाश्च ते ॥ ३ ॥.. संसारिणो विधा जीवाः स्थावरत्रसभेदतः । । हितीयेऽपि विधा पर्याप्तापर्याप्त विशेषतः ॥ ४ ॥ पर्याप्तयस्तु षडिमाः पर्याप्तत्वनिबन्धनम् । आहारो वपुरक्षाणि प्राणा भाषा मनोऽपि च ॥ ५ ॥ स्युरेकाक्षविकलाक्षपञ्चाक्षाणां शरीरिणाम् । चतस्रः पञ्च षड्वापि पर्याप्तयो यथाक्रमम् ॥ ६ ॥ एकाक्षाः स्थावरा भूम्यप्तेजोवायुमहीरुहः । तेषां तु पूर्वे चत्वारः स्युः सूक्ष्मा बादरा अपि ॥ ७ ॥ प्रत्येकाः साधारणाश्च द्विप्रकारा महीरुहः ।। तत्र पूर्व बादराः स्युरुत्तरे सूक्ष्मबादराः ॥ ८ ॥ वसा द्वित्रिचतुष्पञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चेन्द्रिया हेधा संजिनोऽसंजिनोऽपि च ॥ ८ ॥ शिक्षोपदेशालापान्ये जानते तेऽत्र संजिनः । . संप्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंजिनः ॥ १० ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्णी रसो गन्धो रूपं शब्दश्च गोचरः ॥ ११ ॥ हीन्द्रियाः कमयः शङ्का गण्डूपदजलौकसः । कपर्दाः शक्तिकाद्याथ विविधाकृतयो मताः ॥ १२ ॥ यूकामत्कुणमत्कोटलिक्षाद्यास्त्रीन्द्रिया मताः । पतङ्गमक्षिकाभृङ्गदंशाद्याश्चतुरिन्द्रियाः ॥ १३ ॥