________________
१०८
-: योगशास्त्रे ऐहिकामुभिकसुखसाधनत्वेन अर्थकामाभ्यां यद्यप्युत्कृष्थते तथापि कनकनिगडरूपपुण्यकर्मबन्धननिबन्धनत्वाद्भवभ्रमणहेतुरिति नाग्रणीः । मोक्षस्तु पुण्यपापक्षयलक्षणो न क्लेशबहुलो न वा विषसम्पृक्तानवदापातरमणीयः परिणामदुःखदायी नवा ऐहिकामुभिकफलाशंसादोषदूषित इति भवति परमानन्दमयश्चतुर्वर्गऽग्रणोः यः। तस्य च कारणं साधकतमं करणं योगः। तस्य किं रूपमित्याह । रत्नत्रयं मरकतादिव्यवच्छेदेनाह। ज्ञानश्रद्धानचारित्ररूपमिति ॥ १५ ॥
. रत्नत्रये प्रथमं ज्ञानस्वरूपमाह - यथावस्थिततत्वानां संक्षेपाद्विस्तरेण वा । योऽवबोधस्तमबाहुः सम्यग्ज्ञानं मनीषिणः ॥ १६ ॥
यथावस्थितानि नयप्रमाणप्रतिष्ठितस्वरूपाणि यानि तत्त्वानि जीवाजीवाश्रवसंवरनिर्जराबन्धमोक्षलक्षणानि तेषां योऽवबोधस्तत्सम्यग्ज्ञानं स चावबोध: क्षयोपशमविशेषात्कस्यचिसंक्षेपण कर्मक्षयाच्च कस्यचिहिस्तरेण । तथाहि
जीवाजीवावाश्रवश्च संवरो निर्जरा तथा । बन्धो मोक्षश्चेति सप्त तत्त्वान्याहुमनीषिणः ॥ १ ॥ तत्र जीवा विधा ज्ञेया मुक्तसंसारिभेदतः । अनादिनिधनाः सर्वे ज्ञानदर्शनलक्षणाः ॥ २ ॥