SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः । समालम्बावं यत्त्रिदिवसदनातिथ्यमगमत् स एवायं योगः सकलसुखमूलं विजयते ॥ ७६ ॥ १३ ॥ . पुनरेव योगमेव स्तौतितस्याजननिरेवास्तु नृपशोर्मोघजन्मनः । अविद्धकर्णी यो योग इत्यक्षरशलाकया ॥ १४ ॥ न जननमजननि: “नञोऽनिः शापे” ॥ ५ । ३ । १२७ ॥ इत्यनिः । अस्तु भूयात् । ना चासौ पशुश्च नृपशस्तस्य नृपशोः। पशुप्रायपुरुषस्य मोघजन्मन इति निष्फलजननस्य यः । किं योऽविद्धकर्ण: कया अक्षरशलाकया। अक्षराण्येव शलाका कर्णवेधजननी अक्षरशलाका। केनोल्लेखेन यान्यक्षराणि अतएव आह। योग इति योग इत्यक्षरलक्षणशलाकया योऽविद्धकर्ण: लोहादिमयशलाकाविडकर्णोऽपि। तस्य नृपशोर्वरमजननिर्युता न पुनविडम्बनाप्रायं जननमिति ॥ १४ ॥ पुनरपि पूर्वार्द्धन योगं स्तुत्वा उत्तरार्द्धन तत्स्वरूपमाहचतुर्वर्गेऽग्रणीर्मोक्षो योगस्तस्य च कारणम् । ज्ञानश्रद्धानचारिवरूपं रत्नवयं च सः ॥ १५ ॥ चतुर्वर्गोऽर्थकामधर्ममोक्षलक्षण: तस्मिन्नग्रणीः प्रधानं मोक्षः । पर्थो हि अर्जनरक्षणनाशव्ययहेतुकदुःखानुषङ्गदूषितत्वान्न चतुवर्गेऽग्रणीभवति। कामस्तु सुखानुषङ्गलेशायद्यप्यादुत्कृष्थते तथापि विरसावसानत्वात् दुर्गतिसाधनत्वाच्च नाग्रणीः। धर्मस्तु
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy