________________
द्वितीयः प्रकाशः ।
१८५
हिंसाविरतिव्रतमुपदिशति । पङ्गुः सत्यपि पादे पादविहरणाक्षमः कुष्ठी त्वग्दोषी कुणिविकलपाणिः तेषां भावः पङ्ग कुष्ठोकुणित्वम् । अादिग्रहणात्पङ्गत्वोपलक्षितमधःकायवैगुण्यम् । कुष्ठित्वोपलक्षितं सकलरोगजातम् । कुणित्वोपलक्षितमुपरिकायवैगुण्यं संगृह्यते । एतहिंसाफलं दृष्ट्वा सुधौरिति बुद्धिमान् स हि शास्त्रबलेन हिंसायाः फलमेतदिति निश्चित्य हिंसां त्यजेत् । अत्र विधौ सप्तमी। केषां निरागस्त्रसजन्तूनां निरागसो निरपराधास्त्रमा हौन्द्रियादयस्तेषां सङ्कल्पेन सङ्कल्पत: आद्यादित्वात्तृतीयान्तात्तसुः । निरागस इति निरपराधजन्तुविषयां हिंसां प्रत्याचष्टे सापराधस्य तु न नियमः । त्रसग्रहणेनैकेन्द्रियविषयां हिंसां नियमयितुं न क्षम इत्याचष्टे सङ्कल्पत इति अमुं जन्तुं मांसाद्यर्थित्वेन हन्मौति सङ्कल्पपूर्वक हिंसां वर्जयेत्। प्रारम्भजा तु हिंसा अशक्यप्रत्याख्यानेति तत्र यतनामेव कुर्यादिति। अत्रान्तरलोकाः
येषामेकान्तिको भेदः सम्मतो देहदेहिनोः । तेषां देहविनाशेऽपि न हिंसा देहिनो भवेत् ॥ १ ॥ अभेदैकान्तवादेऽपि स्वीकृते देहदेहिनोः । देहनाशे देहिनाशात्परलोको ऽस्तु कस्य वै ॥ २ ॥ भिन्नाभिवतया तस्माज्जीवे देहात्प्रतिश्रुते । देहनाशे भवेत्पीडा या तां हिंसां प्रचक्षते ॥ ३ ॥ दुःखोत्पत्तिर्मनालेशस्तत्पर्यायस्य च क्षयः । यस्यां स्यात्सा प्रयत्नेन हिंसा हेया विपश्चिता ॥ ४ ॥
राहनाः ।