________________
१८६
योगशास्त्रे
प्राणी प्रमादतः कुर्याद्यत्प्राणव्यपरोपणम् । सा हिंसा जगदे प्राज्ञेर्बीजं संसारभूरुहः ॥ ५ ॥ शरीरी स्त्रियतां मा वा ध्रुवं हिंसा प्रमादिनः । सा प्राणव्यपरोपेऽपि प्रमादरहितस्य न ॥ ६ ॥ जीवस्य हिंसा न भवेन्नित्यस्यापरिणामिनः । क्षणिकस्य स्वयं नाशात्कथं हिंसोपपद्यताम् ॥ ७ ॥ नित्यानित्ये ततो जीवे परिणामिनि युज्यते । हिंसा कायवियोगेन पीडातः पापकारणम् ॥ ८ ॥ केचिद्ददन्ति हन्तव्याः प्राणिनः प्राणिघातिनः । हिंस्रस्यैकस्य घाते स्याद्रक्षणं भूयसां किल ॥ ८ ॥ तदयुक्तमशेषाणां हिंस्रत्वात्प्राणिनामिह । हन्तव्यता स्यात्तल्लाभमिच्छोर्मूलक्षतिः 'स्फुटा ॥ १० ॥ अहिंसासम्भवो धम्मंः स हिंसातः कथं भवेत् । न तोयजानि पद्मानि जायन्ते जातवेदसः ॥ ११ ॥ पापहेतुर्वधः पापं कथं छेत्तुमलं भवेत् । मृत्युहेतुः कालकूटं जीविताय न जायते ॥ १२ ॥ संसारमोचकास्त्वाहुर्दुःखिनां वध इष्यताम् ।
विनाशे दुःखिनां दुःखविनाशो जायते किल ॥ १३ ॥ तदप्यसाम्प्रतं ते हि हता नरकगामिनः ।
अनन्तेषु नियोज्यन्ते दुःखेषु स्वल्पदुःखकाः ॥ १४ ॥
(१) घ ङ छ स्फुटम् ।