________________
१८७
हितीयः प्रकाशः । किं च सौख्यवतां घात धम्मः स्यात्यापवारणात् । इत्यं विचार्य हेयानि वचनानि कुतीर्थिनाम् ॥ १५ ॥ चार्वाकाः प्राहुरात्मैव तावत्रास्ति कथञ्चन । तं विना कस्य सा हिंसा कस्य हिंसाफलं भवेत् ॥ १६ ॥ भूतेभ्य एव चैतन्यं पिष्टादिभ्यो यथा मदः । भूतसंहतिनाशे च पञ्चत्वमिति कथ्यते ॥ १७ ॥ आत्माभावे च तन्मूल: परलोको न युज्यते । अभावे परलोकस्य पुण्यापुण्य कथा वृथा ॥ १८॥ तपांसि यातनाश्चित्राः संयमी भोगवञ्चना । इति विप्रतिपत्तिभ्यः परेभ्यः परिभाष्यते ॥ १८ ॥ स्वसंवेदनतः सिद्धः स्वदेहे जीव इष्यताम् । अहं दुःखी सुखी वाहमिति प्रत्यययोगतः ॥ २० ॥ घटं वेद्माहमित्यत्र त्रितयं प्रतिभासते । कम्म क्रिया च कर्ता च तत्कर्ता किं निषिध्यते ॥ २१ ॥ शरीरमेव चेत्कर्तृ न कर्तृ तदचेतनम् । भूतचैतन्ययोगाच्चेञ्चेतनं तदसङ्गतम् ॥ २२ ॥ मया दृष्टं श्रुतं स्पृष्टं घ्रातमास्वादितं स्मृतम् । इत्येक कर्तृकाभावात् भूतचिद्दादिनः कथम् ॥ २३ ॥ वसंवेदनत: सिद्धे स्वदेहे चेतनात्मनि । परदेहेऽपि तत्सि हिरनुमानेन साध्यते ॥ २४ ॥ बुद्धिपूर्वी क्रियां दृष्ट्वा खदेहेऽन्यत्र तहतिः । प्रमाणबलतः सिद्धा केन नाम निवार्यते ॥ २५ ॥