SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १८८ . . योगशास्त्रे . तत्परलोकिनः सिद्धौ परलोको न दुर्घटः । तथा च पुण्यपापादि 'सर्वमेवोपपद्यते ॥ २६ ॥ तपांसि यातनाश्चित्रा इत्याद्युन्मत्तभाषितम् । सचेतनस्य तत्कस्य नोपहासाय जायते ॥ २७ ॥ निर्बाधोऽस्ति ततो जीवः स्थित्युत्पादव्ययात्मकः । ज्ञाता द्रष्टा गुणी भोक्ता कर्ता कायप्रमाणकः ॥ २८ ॥ तदेवमात्मनः सिद्धी हिंसा किं नोपपद्यते । तदस्याः परिहारेणाहिंसाव्रतमुदीरितम् ॥ २८ ॥ १८ ॥ हिंसानियमे स्पष्टं दृष्टान्तमाहआत्मवत्सर्वभूतेषु सुखदुःखे प्रियाप्रिये। . चिन्तयनात्मनोऽनिष्टां हिंसामन्यस्य नाचरेत् ॥२०॥ सुखशब्देन सुखसाधनमनपानसक्चन्दनादि गृह्यते । दुःखशब्देन दुःखसाधनं वधबन्धमारणादि । ततो यथात्मनि दुःखसाधनमप्रियं तथा सर्वभूतेष्वपि। एवं चिन्तयन् दुःखसाधनत्वादप्रियां परस्य हिंसां न कुर्वीत। सुखग्रहणं दृष्टान्तार्थम् । यथा सुखसाधनं प्रियमेवं दुःखसाधनमप्रियम् । तथा सर्वभूतेष्वपि दुःखसाधनमप्रियमित्यर्थः । यदाहुलौकिका अपि श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मन: प्रतिकूलानि परेषां न समाचरेत् ॥१॥ इति ॥२०॥ (१) क च खयमे-।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy