________________
द्वितीयः प्रकाशः ।
ननु प्रतिषिद्धाचरणे दोषः प्रतिषिद्धा च चसजीवविषया हिंसा स्थावरेषु त्वप्रतिषिद्धहिंसेषु यथेष्टं चेष्टन्तां गृहस्था इत्याह
निरर्थिकां न कुर्वीत जीवेषु स्थावरेष्वपि । हिंसामहिंसाधर्मज्ञः काङ्क्षन्मोक्षमुपासकः ॥ २१ ॥
१८८
स्थावराः 'पृथिव्यम्बु तेजोवायुवनस्पतयस्तेष्वपि जीवेषु हिंसां न कुर्वीत । किं विशिष्टां निरर्थिकां प्रयोजनरहितां शरीरकुटुम्ब - निर्वाहनिमित्तं हि स्थावरेषु हिंसा न प्रतिषिद्धा या त्वनर्थिका शरीरकुटुम्बादिप्रयोजनरहिता तादृशीं हिंसां न कुर्वीत । उपासकः श्रावकः किं विशिष्टः अहिंसाधर्मज्ञः अहिंसालक्षणं धर्मं जानातीति अहिंसाधर्मज्ञः । न हि प्रतिषिद्धवस्तुविषये वाहिंसाधर्मः । किन्त्वप्रतिषिद्धेष्वपि सा यतनारूपा । ततश्च तथाविधं धर्मं जानन् स्थावरेष्वपि निरर्थिकां हिंसां न विदधीत । ननु प्रतिषिद्धविषयैवाहिंसास्तु किमनया सूक्ष्मेचिकया इत्याह । काङ्क्षन्मोक्षं स हि मोचाकाङ्क्षी यतिवत् कथं निरर्थिकां हिंसामाचरेत् ॥ २१॥
ननु निरन्तरहिंसापरोऽपि सर्वस्वं दक्षिणां दत्त्वा पापविशुद्धिं विदध्यात् किमनेन हिंसापरिहारक्लेशेन इत्याहप्राणी प्राणितलोभेन यो राज्यमपि मुञ्चति । तद्दधोत्यमघं सर्वोर्वीदानेऽपि न शाम्यति ॥ २२ ॥
(१) ग च ज ष्टथिव्यप्तेजो- ।