SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ २०० योगशास्त्रे प्राणी जन्तुः प्राणितं जीवितव्यं तस्य लोभन राज्यमपि तत्कालोपस्थितं परिहरति। यदाह मार्यमाणस्य हेमाद्रिं राज्यं वाथ प्रयच्छतु । तदनिष्टं परित्यज्य जीवो जीवितुमिच्छति ॥ १ ॥ तत्तथाविधप्राणितप्रियप्राणिवधसम्भवं पापं सकलपृथ्वीदानेनापि न शाम्यति । भूदानं हि सकलदानेभ्योऽभ्यधिकमिति श्रुतिः ॥ २२ ॥ __ अथ श्लोकचतुष्टयेन हिंसाक निन्दामाहवने निरपराधानां वायुतोयटणाशिनाम् । निघ्नन् मृगाणां मांसार्थों विशिष्येत कथं शुनः ॥२३॥ मृगाणामिति “निप्रेभ्यो नः” ॥ २ । २ । १५ ॥ इति कर्मत्वप्रतिषेधाच्छेषे षष्ठी। वने वनवासिनां नतु परस्वीकृतभूमिवासिनां तथाविधा अपि सापराधाः स्युरित्याह । निरपराधानां परधनहरणपरग्रहभङ्गपरमारणाद्यपराधरहितानां निरपराधत्वे हेतुमाह। वायुतोयलणाशिनाम् । न हि वायुतोयटणानि परधनानि येन तद्भक्षणामापराधत्वं स्वात् । मांसार्थीति अत्रापि मृगाणामिति सम्बध्यते । मृगाणां यन्मांसं तदर्थयते मृगग्रहण नाटविकाः प्राणिनो गृह्यन्ते। एवंविधमृगमांसार्थी मृगवधपरायणो निरपराधमानुषपिचण्डिका मांसलुब्धाच्छुनः कथं विशिष्येत श्वेत्यर्थः ॥ २३ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy