SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १८८ योगशास्त्रे - भिक्षूणामक्लेशको धर्म उपदिष्टः स्नानानपानाच्छादनशयनीयादिषु सुखानुभवहारेण । यदाह मृद्दी शय्या प्रातरुत्थाय पया मध्ये भक्तं पानकं चापराहे द्राक्षाखण्डं शर्करा चाईराने मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥ १ ॥ इति एतदपि घटमानकमेव न दूरापितम् । तथा परिवाटभौतब्राह्मणादयो विषयानुपभुञ्जाना एव परलोकेऽपि सुखेन युज्यन्त इति । साधीयानेषोऽपि धर्म इति । एवं च काङ्गापि परमार्थतो भगवदर्हप्रणीतागमानाखासरूपा सम्यक्त्वं दूषयति । विचिकित्सा चित्तविल्लवः । सा च सत्यपि युक्त्यागमोपपन्ने जिनधर्मेऽस्य महतस्तपालेशस्य सिकताकणकवलवनिस्वादस्यायत्यां फलसम्पगवित्री। अथ क्लेशमात्रमेवेदं निर्जराफलविकलमिति । उभयथा हि क्रिया दृश्यन्ते सफला अफलाश्च कृषीबलादीनामिव इयमपि तथा सम्भाव्यते। यदाह'पुव्वपुरिसा जहोइअमग्गचरा घडड तेसि फलजोगो अम्हेसु य धीसंघयणविरहो न तह तेसि फलं ॥ १ ॥ इति ॥ (१) पूर्वपुरुषा यथोचितमार्गचरा घटते तेषां फलयोगः । अस्मासु च धीसंग्रहणविरहतः न तथा तेषां फलम् ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy