________________
द्वितीयः प्रकाशः ।
१८८ विचिकित्सापि भगववचनानाखासरूपत्वात्सम्यकस्य दोषः । न च शङ्कातो नेयं भिद्यते । शङ्का हि सकलासकलपदार्थभावीन ट्रव्यगुणविषया इयं तु क्रियाविषयैव । यहा विचिकित्सा निन्दा सा च सदाचारमुनिविषया यथा अनानेन प्रखेदजलक्लिनमलत्वा. दुर्गन्धिवपुष एत इति । को दोषः स्याद्यदि प्रासुकवारिणा अङ्गक्षालनं कुर्वीरविति । इयमपि तत्त्वती भगवन्मानाखासरूपत्वात् सम्यक्त्वदोषः। मिथ्या जिनागमविपरीता दृष्टिदर्शनं येषां ते मिथ्यादृष्टयस्तेषां प्रशंसनं प्रशंसा तच्च सईविषयं देशविषयं च । सर्वविषयं सर्वाण्यपि कपिलादिदर्शनानि युक्तियुक्तानीति माध्यस्थ्यसारा स्तुतिः सम्यवास्य दूषणम् । यदाचक्ष्महि स्तुती
सुनिश्चितं मत्सरिणो जनस्य न नाथ मुद्रामतिशेरते ते । . माध्यस्थ्यमास्थाय परीक्षका ये
मणौ च काचे च समानुबन्धाः ॥ १ ॥ देशविषयं तु इदमेव बुद्धवचनं सायकणादादिवचनं वा तत्त्वमिति। इदं तु व्यक्तमेव सम्यवदूषणम् । तैर्मिथ्यादृष्टिभिरेकत्र संवासात्परस्परालापादिजनित: परिचयः संस्तवः । एकत्रवासे हि तप्रक्रियाश्रवणात्तक्रियादर्शनाच्च दृढसम्यक्त्ववतोऽपि दृष्टिभेदः सम्भाव्यते । किमुत मन्दबुद्धेनवधर्मस्य इति संस्तवोऽपि सम्यक्त्वदूषणम् । एवं विधं च सम्यक्त्वं विशिष्टद्रव्यक्षेत्रकालभावसामग्रमा सत्यां गुरोः समीप विधिना प्रतिपद्य श्रावको यथावत्यालयति ।