________________
१२०
योगशास्त्र
प्रियं पथ्यं च तत्र प्रियं यत् श्रुतमानं प्रौणयति पथ्यं यदायतौ हितम् । ननु तथ्यमेवैकं विशेषणमस्तु सत्यव्रताधिकारात् प्रिय. यथ्ययोस्तु कोऽधिकारः । अत आह। तत्तथ्यमपीति व्यवहारापेक्षया तथ्यमपि यदप्रियं यथा चौरं प्रति चौरस्त्वं कुष्ठिनं प्रति कुष्ठी त्वमिति तदप्रियत्वान्न तथ्यम् । तथ्यमप्यहितं यथा। मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो मया मृगा दृष्टा इति तज्जन्तुघातहेतुत्वान्न तथ्यम् ॥ २१ ॥
तृतीयमाहअनादानमदत्तस्यास्तेयव्रतमुदीरितम् । बाह्याः प्राणा नृणामों हरता तं हता हि ते ॥२२॥
वित्तस्वामिना अदत्तस्य वित्तस्य यदनादानं तदस्तेयव्रतम् । तच्च खामिजीवतीर्थकरगुवदत्तभेदेन चतुर्विधम् । नत्र स्वाम्यदत्तं तृणोपलकाष्ठादिकं तत्स्वामिना यददत्तम् । जीवादत्तं यत्स्वामिनादत्तमपि जीवनादत्तं यथा प्रव्रज्यापरिणामविकलो मातापिटभ्यां पुत्रादि गुरुभ्यो दीयते । तीर्थकरादत्तं यत्तीर्थकरैः प्रतिषिद्धमाधाकर्मिकादि गृह्यते। गुज़दत्तं नाम स्वामिना दत्तमाधाकम्भिकादिदोषरहितं गुरूनननुज्ञाप्य यगृह्यते । नन्वहिंसापरिकरत्वं सर्वव्रतानामदत्तादाने तु केव हिंसा येनाहिंसापरिकरत्वं स्यादित्युक्तं बाह्याः प्राणा इत्यादि। यदि स्तेयस्य प्राणहरणस्वरूपं मृग्यते तदा तदस्त्येव ॥ २२ ॥