SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः । चतुर्थमाह यदाह १२१ दिव्यौदारिककामानां कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥२३॥ तच्चाष्टादशधा दिवि भवा दिव्याः ते च वैक्रियशरीरसम्भवाः । औदारिकाश्च श्रदारिकतिर्यग्मनुष्यदेहप्रभवास्ते च ते काम्यन्त इति कामाख तेषां त्यागो ऽब्रह्मनिषेधात्मकं ब्रह्मचर्यव्रतम् । मनसा अब्रह्म न करोमि न कारयामि कुर्वन्तमपि परं नानुमन्ये । एवं च वचसा कायेन वेति दिव्ये ब्रह्मणि नवभेदाः । एवमौदारिकेऽपौत्यष्टादश । दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥ १ ॥ इति ॥ कृतानुमतिकारितैरिति मनोवाक्कायत इति च मध्ये कृतत्वात्पूर्वी - त्तरेष्वपि महाव्रतेषु सम्बन्धनोयम् ॥ २३ ॥ पञ्चममाह सर्वभावेषु मूर्च्छायास्त्यागः स्यादपरिग्रहः । यदसत्खपि जायेत मूर्च्छया चित्तविप्लवः ॥२४॥ सर्वभावेषु द्रव्यक्षेत्रकालभावरूपेषु यो मूर्च्छाया गास्य त्यागो नतु द्रव्यादित्यागमात्रं सोऽपरिग्रहव्रतम् । ननु परिग्रहत्यागोऽपरिग्रहव्रतं स्यात् किं मूर्छात्यागलक्षणेन तल्लक्षणेन अत आह । यदसत्स्वपीति । १६
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy