SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १२२ - योगशास्त्रे यस्मादसत्स्वप्यविद्यमानेष्वपि द्रव्यक्षेत्रकालभावेषु मूर्च्छया चित्तविप्लव: स्यात् । चित्तविप्लव: प्रशमसौख्यविपर्यासः । असत्यपि धने धनगईवतो राजगृहनगरद्रमकस्येव चित्तसंक्लेशो दुर्गतिपातनिबन्धनं भवति । सत्यपि वा द्रव्यक्षेत्रकालभावलक्षणे सामग्रीविशेष तृष्णाकृष्णाहिनिरुपद्वमनसां प्रशमसुखप्राप्त्या चित्तविप्लवाभावः । अत एव धर्मोपकरणधारिणां यतीनां शरीरे उपकरणे च निर्ममत्वानामपरिग्रहत्वम् । यदाह यहत्तुरगः सत्स्वप्याभरणभूषणेष्वनभिषक्तः । तहदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ॥ १॥ यथा च धर्मोपकरणवतामपि मूर्छारहितानां मुनीनां न परिग्रहग्रहित्वदोषस्तथा वतिनीनामपि गुरूपदिष्टधर्मोपकरणधारिणीनां रत्नत्रयवतीनां तेन तासां धर्मोपकरणपरिग्रहमात्रेण मोक्षापवादः प्रलापमात्रम् ॥ २४ ॥ पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये इत्युक्तं तपस्तौति-- भावनाभि वितानि पञ्चभिः पञ्चभिः क्रमात् । महाव्रतानि नो कस्य साधयन्त्यव्ययं पदम् ॥ २५ ॥ भाव्यन्ते वास्यन्ते गुणविशेषमारोप्यन्ते महाव्रतानि यकाभिस्ता भावनाः ॥२५॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy