SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः । १२३ अथ प्रथमव्रतस्य भावना आहमनोगुष्धषणादानेर्याभिः समितिभिः सदा। दृष्टान्नपानग्रहणे नाहिंसां भावयेत् सुधौः ॥२६॥ मनोगुप्तिर्वक्ष्यमाणलक्षणा तयेत्येका भावना । एषणा विशुद्धपिण्ड. ग्रहणलक्षणा तस्यां या समितिः। आदानग्रहणेन निक्षेप उपलक्ष्यते। तेन पीठादेग्रहणे स्थापने च या समितिः । ईरणमौर्या गमनं तत्र या समितिः। आभिरेषणादानेयासमितिभिर्दृष्टयोरनपानयोग्रहणेनोपलक्षणत्वात् तद्ग्रासेनाहिंसा भावयेदिति सम्बन्धः । इह च गुप्तिसमितीनां महाव्रतभावनात्वेन गतार्थानामपि अथवा पञ्चसमितीत्यादिग्रन्येन पुनरुत्कीर्तनं गुप्तिममितीनामत्तरगुणत्वज्ञापनार्थम् । यदाहपिण्डस्म जा विसोही समिईओ भावणा तवो दुविहो । . पडिमा अभिग्गहो चिय उत्तरगुणगोवियाणाहिं ॥ १ ॥ इह च मनोगुप्तेर्भावनात्वं हिंसायां मनोव्यापारस्य प्राधान्यात् । श्रूयते हि प्रसन्नचन्द्रराजर्षिर्मनोगुल्या प्रभाविताहिंसाव्रतो हिंसामकुर्वनपि सप्तमनरकपृथ्वीयोग्यं कम्म निर्ममे एषणादानर्यासमितयस्तु अहिंसायां नितरामुपकारिण्य इति युक्तं भावनात्वम् । दृष्टान्नपानग्रहणं च संसक्तानपानपरिहारेणाहिंसावतोपकारायेति पञ्चमी भावना ॥ २६ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy