________________
योगशास्त्र
द्वितीयव्रतस्य भावना आह
हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् । आलोच्य भाषणेनापि भावयेत्मन्नृतव्रतम् ॥२७॥
हसन् हि मिथ्या ब्रूयात् । लोभपरवशश्चार्थाकाङ्क्षया भयार्त्तः प्राणादिरक्षणेच्छया क्रुद्धः क्रोधतरलितमनस्कतया मिथ्या ब्रूयादिति । हास्यादिप्रत्याख्यानानि चतस्रो भावनाः । आलोच भाषणं सम्यग्ज्ञानपूर्वकं पयालोय मृषा माभूदिति मोहतिर - स्कारद्दारेण भाषणं पञ्चमी भावना । मोहस्य च मृषावाद हेतुत्वं प्रतीतमेव ।
यदाह
१२४
रागादा द्वेषादा मोहाद्दा वाक्यमुच्यते ह्यनृतमिति ॥ २७ ॥ तृतीयव्रतस्य भावना आह ।
आलोच्यावग्रहयाच्ञाभीक्ष्णा व ग्रहयाचनम् । एतावन्मात्रमेवैतदित्यवग्रहधारणम् ॥ २८ ॥ समानधार्मिकेभ्यश्च तथावग्रहयाचनम् । अनुज्ञापितपानान्नाशनमस्तेयभावनाः ॥ २६ ॥ ( युग्मम्)
आलोच्य मनसा विचिन्त्यावग्रहं याचेत । देवेन्द्रराजगृहपतिशय्यातरसाधर्मिकभेदाद्धि पञ्चावग्रहाः । अत्र च पूर्व: पूर्वो बाध्य उत्तर उत्तरो बाधकः । तत्र देवेन्द्रावग्रहो यथा सौधनाधिपतेदक्षिणलोकाईं ईशानाधिपतेरुत्तरलो कार्डम् । राजा चक्रवर्त्ती