SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाश: । १२५ तस्यावग्रहो भारतादिवर्षम् । गृहपतिर्मण्डलाधिपतिस्तस्यावग्रह स्तन्मण्डलादि। शय्यातरी वसतिस्वामी तदवग्रहो वसतिरेव । साधर्मिका: साधवस्तेषामवग्रहः शय्यातरप्रदत्तं राहादि। एतानवग्रहान् ज्ञात्वा यथायथमवग्रहं याचेत । अस्वामियाचने हि परस्परविरोधेन अकाण्डधाटनादय ऐहिका दोषा: परलोकेऽपि अदत्तपरिभोगजनितं पापकम्म। इति प्रथमा भावना । सतहत्तेऽप्यवग्रह स्वामिना अभीक्ष्णं भूयो भूयोऽवग्रहयाचनं कार्य पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थामूत्रपुरीषोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दालचित्तपीडापरिहारार्थ याचनीयानि । इति द्वितीयभावना। एतावन्मात्रमेव एतावत्परिमाणमेवैतत् क्षेत्रादि ममोपयोगि नाधिकमिति अवग्रहस्य धारणं व्यवस्थापनम् । एवमवग्रहधारणे हि तदभ्यन्तरवर्तिनीमूर्द्धस्थानादिक्रियामासेवमानो न दातुरुपरोधकारी भवति। याजाकाल एवावग्रहानवधारण विपरिणतिरपि दातुश्चेतसि स्यादात्मनोऽपि चादत्तपरिभोगजनितकम्मबन्धः स्यादिति तृतीयभावना। धर्म चरन्तीति धार्मिकाः समानास्तुल्याः प्रतिपन्नकशासनाः साधवस्तेभ्यः पूर्वपरिग्रहीतक्षेत्रेभ्योऽवग्रहो याच्यस्तदनुज्ञानाति तत्रासितव्यं अन्यथा स्तेयं स्यादिति चतुर्थी भावना। अनुज्ञापिते अनुज्ञया स्वीकृते ये पानाने तयोरशनं सूत्रोक्तेन हि विधिना प्रासुकमेषणीयं कल्पनीयं च पानावं लब्धमानीयालोचनापूर्व गुरवे निवेद्यानुज्ञातो गुरुणा मण्डल्यामेकको वा ऽनीयात् । उपलक्षणमेतत् यत्किञ्चिदौधिकोपग्रहिकभेदमुपकरणं धर्मसाधनं तत्सवें गुरुणाऽनु
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy