________________
१२६
योगशास्त्रे
ज्ञातं परिभोक्तव्यम् । एवं विदधानो नातिक्रामत्यस्तेयव्रतमिति
पञ्चमो भावना |
चतुर्थव्रतभावना आह
➖➖➖
स्वौष ण्ठ पशुमद्देश्मासन कुड्यान्तरोज्झनात् । सरागस्वौकथात्यागात्प्राग्रतस्मृतिवर्जनात् ॥ ३० ॥ स्वौरम्याङ्गेक्षणखाङ्गसंस्कार परिवर्जनात् । प्रणीतात्यशनत्यागाद् ब्रह्मचर्यं तु भावयेत् ॥ ३१॥ ( युग्मम् )
स्त्रियो देवमानुषभेदाद्विविधाः एताश्व सचित्ताः । अचित्तास्तु पुस्तलेप्यचित्रकर्मादिनिर्मिताः । षण्टास्टतीयवेदोदयवर्त्तिनो महामोहकर्माणः स्त्रोपुंससेवनाभिरताः । पशवस्तिर्यग्योनिजाः । तत्र गोमहिषीवडवावालेयोअजाअविकादयः सम्भाव्यमानमैथुनाः । एभ्यः कृतद्दन्देभ्यो मतुः स्त्रीषण्ठपशुमतो च ते वेश्मासने च वेश्म वसतिः । आसनं संस्तारकादि । कुड्यान्तरं यत्रान्तरस्थोऽपि कुड्यादौ दम्पत्योर्मोहनादिशब्दः श्रूयते ब्रह्मचर्यभङ्गभयादेषामुज्झनं त्यागः । इति प्रथमा भावना । सरागस्य मोहोदयवतो या स्त्रीभिः कथा स्त्रीणां वा कथा सरागाश्च ताः स्त्रियश्च ताभिस्तासां वा कथा तस्यास्त्यागः । रागानुबन्धिनी हि देशजातिकुलनेपथ्यभाषागतविभ्भ्रमेङ्गितहास्यलीला कटाक्षप्रणयकलह शृङ्गाररसानुविद्धा कथा