________________
प्रथमः प्रकाशः।
वात्येव चित्तोदधेरवश्यं विक्षोभमादधातीति द्वितीया भावना । प्राक् प्रव्रज्याब्रह्मचर्यात् पूर्व गृहस्थावस्थायां यद्रतं स्त्रीभिः सह निधुवनं तस्य स्मृतिस्तस्या वर्जनं प्राग्रतस्मरणन्धनादि कामाग्निः सन्धुक्ष्यते । इति टतीया भावना। स्त्रीणामविवेकिजनापेक्षया यानि रम्याणि स्पृहणीयान्यङ्गानि मुखनयनस्तनजघनादीनि तेषामीक्षणमपूर्व विस्मयरसनिर्भरतया विस्फारिताक्षस्य विलोकनम् । ईक्षणमात्रं तु रागद्देषरहितस्यादुष्टमेव ।
यदाह- .
अशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागहेषौ तु यौ तत्र तो बुधः परिवर्जयेत् ॥१॥ इत्यादि ॥
तथा स्वस्थात्मनोऽङ्गं शरीरं तस्य संस्कार: नानविलेपनधूपननखदन्तकेशसन्मार्जनादि स्त्रीरम्याङ्गेक्षणं च स्वाङ्गसंस्कारश्च तयोः परिवर्जनात् । खोरम्याङ्गेक्षणतरलितविलोचनो हि दीपशिखायां शलभ इव विनाशमुपयाति । अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिकामयैर्विकल्पैर्वृथात्मानमायासयतीति चतुर्थी भावना । प्रणीतो वृष्यः सिग्धमधुरादिरसः । अत्यशनमप्रणीतस्याऽपि रुक्षभैक्षस्याकण्ठमुदरपूरणं तयोस्त्यागो निरन्तरवृष्यमधुरस्निग्धरसप्रणीतो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्माऽपि सेवेत । अत्यशनस्य तु न केवलं ब्रह्मक्षतिकारित्वादर्जनं शरीरपोडाकारित्वादपि।