SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १२८ योगशास्त्र यदाह अद्धमसणस्म सव्वं जणस्म कुज्जा 'दगम दोभागे । वाउपवियारणहा छब्भायं ऊणगं कुज्जा ॥ १ ॥ इति पञ्चमो भावना। एवं नवविधब्रह्मचर्यगुप्तिसंग्रहण ब्रह्मचर्यव्रतस्य पञ्च भावनाः ॥ ३० ॥ ३१ ॥ पञ्चमव्रतस्य भावना आहस्पर्श रस च गन्धे च रूपे शब्द च हारिणि । पञ्चखितीन्द्रियार्थेषु गाढं गाडास्य वजनम्॥३२॥ एतेष्वेवामनोज्ञेषु सर्वथा द्वेषवर्जनम् । आकिञ्चन्यव्रतस्यैवं भावनाः पञ्च कीर्तिताः ॥३३॥ (युग्मम् ) स्पर्शादिषु मनोहारिषु विषयेषु यहाढं गाईवस्याभिष्वङ्गास्य वर्जनम्। स्पर्शादिष्वेवामनोजेष्विन्द्रियप्रतिकूलेषु यो देषोऽनौतिलक्षणस्तस्य वर्जनम् । गाईवान् हि मनोने विषयेऽभिष्वङ्गवानमनोज्ञान्विषयान्विहेष्टि मध्यस्थस्य तु मूर्छारहितस्य न कचिप्रीतिरप्रीतिर्वा रागानान्तरीयकतया च दे॒षस्योपादानम् । किञ्चन बाह्याभ्यन्तरपरिग्रहरूपं नास्यास्तीत्य किञ्चनस्तद्भावपाकिच्चन्यमपरिग्रहता। आकिञ्चन्यं च तद्वतं च तस्यैता: पञ्च भावनाः ॥ ३२ ॥ ३३ ॥ .) (१) क ग घ ङ च छ हवस्म ।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy