________________
प्रथमः प्रकाशः।
१२८
मूलगुणरूपचारित्रमभिधायोत्तरगुणरूयं तदाह
अथवा पञ्चसमितिगुप्तिबयपविवितम् ।
चरित्रं सम्यक्चारित्रमित्याहुर्मुनिपुङ्गवाः ॥ ३४ ॥ समितिरिति पञ्चानां चेष्टानां तान्त्रिकी संज्ञा । अथवा सं सम्यक् प्रशस्ता प्रहप्रवचनानुसारेण इति: चेष्टा समिति: पञ्चानां समितीनां समाहारः पञ्चसमिति । गुप्तिरात्मनः संरक्षणं मुमुक्षोर्योगनिग्रह इत्यर्थः । गुप्तीनां त्रयं गुप्तित्रयं पञ्चसमिति च गुप्तित्रयं च ताभ्यां च पवित्रितं यच्चरित्रं यतीनां चेष्टा सा सम्यक्चारित्रमुच्यते। सम्यक्प्रवृत्तिलक्षणा समितिः प्रवृत्तिनिवृत्तिलक्षणा गुप्ति रत्यनयोर्विशेषः ॥ ३४ ॥
अथ समितीर्गुप्तोश्च नामत आहईर्याभाषैषणादाननिक्षेपोत्सर्गसंजिकाः । पञ्चाहुः समितीस्तिस्रो गुप्तौस्त्रियोगनिग्रहात्॥३५॥ ईर्यासमिति षासमितिरषणासमितिरादाननिक्षेपसमितिरुत्सर्गसमितिरित्येताः पञ्चसमितीब्रुवते तीर्थकराः। त्रिसंख्या योगास्त्रियोगा मनोवाक्कायव्यापारास्तेषां निग्रही निरोधः। प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गनिवारणं च। निग्रहादिति हेती पञ्चमी तेन मनोगुप्तिर्वचनगुप्तिः कायगुप्तिरिति तिम्रो गुप्तौ वते ॥ ३५ ॥