SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १३० - योगशास्त्रे ईर्यालक्षणमाहलोकातिवाहिते मार्गे चुम्बिते भाखदंशुभिः। जन्तुरक्षार्थमालोक्य गतिरोर्या मता सताम् ॥ ३६ ॥ त्रसस्थावरजन्तुजाताभयदानदीक्षितस्य मुनरावश्यक प्रयोजने गच्छतो जन्तुरक्षानिमित्तं स्वशरीररक्षानिमित्तं च पादानादारभ्य युगमावक्षेत्रं यावत् निरीक्ष्य ईरणमीर्या गतिस्तस्यां समितिरीर्यासमितिः । यदाहु: 'पुरपी जुगमायाए पेहमाणो महिं चरे। वज्जतो बीयहरियाई पाणे य दगमष्टियं ॥ १ ॥ 'प्रोवायं विसमं खाणुं विजलं परिवज्जए । समेण न गच्छेज्जा विज्जमाण परक्कमे ॥ २ ॥ गतिश्च मार्गे भवति तस्य विशेषणं लोकातिवाहिते लोकैरतिवाहिते अत्यन्त क्षुस्से । चुम्बिते स्पृष्ट प्रादित्यकिरणैः प्रथमविशेषणेन परैविराधित मार्गे गच्छतो यतेः षड्जीवनिकायविराधना न भवति। उन्मार्गेण न गन्तव्यमिति चाह । तथाविधेऽपि मागें (१) पुरतो युगमालया प्रेक्षमाणो महिं चरेत् । __ वर्जयन् बीजहरितानि प्राणान् च दकमत्तिकाम् ॥ (२) अवपात विषमं स्थाणुं विजलं परिवर्जयेत् ।। संक्रमेण न गच्छत विद्यमाने पराक्रमे ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy