________________
प्रथमः प्रकाशः।
१३१
रात्री गच्छतः सम्मातिमसत्त्वविराधना भवेदिति तत्परिहारार्थं हितीयविशेषणम् । एवंविधोपयोगवतश्च गच्छतो मुनेः कथंचित् प्राणिवधेऽपि प्राणिवधपापं न भवति ।
यदाह
उच्चालियम्मि पाए इरियासमियस्म सङ्कमट्ठाए । वावज्जेज्ज कुलिङ्गी मरिज्ज तं जोगमासज्ज ॥ १ ॥ न य तस्म तबिमित्तो बंधो सुहुमोवि देसिनो समए । अणवज्जो उपभोगण सब्वभावेण सो जम्हा ॥ २ ॥
सथा
जिअदु व मरदु व जीवो अजदाचारस्म निच्छो हिंसा । पयदस्म णस्थि बंधो हिंसामित्तेण समिदस्म ॥ ३ ॥ ३६ ॥
भाषासमितिमाह
अवद्यत्यागतः सर्वजनीनं मितभाषणम् । प्रिया वाचंयमानां सा भाषासमितिरुच्यते ॥३०॥
अवद्यानि भाषादोषा वाक्यशाध्ययनप्रतिपादिताः धूर्त्तकामुककव्यादचौरचार्वाकादिभाषितानि च तेषां निर्दम्भतया त्यागस्ततः सर्वजनीनं सर्वजनेभ्यो हितं मितं वल्पमप्यतिबहुप्रयोजनसाधकं तच तद्भाषणं च।