________________
१३२
यदाह
'महुरं निउणं थोवं कज्जावडियं श्रगव्वियमतुच्छं । पुव्विंमसंक लियं भांति जं धम्ममंजुत्तं ॥ १ ॥
योगशास्त्रे
एवंविधं यद्भाषणं सा भाषासमितिः । भाषायां सम्यगिति - र्भाषासमितिः । सा च प्रिया अभिमता वाचंयमानां मुनीनाम् ।
यदाहु:
" जा य सच्चा न वक्तव्वा सच्चामोसा य जा मुसा ।
जाय बुद्धेहिं णाइमा ण तं भासेज्ज पणवं ॥ १ ॥ इति ॥३७॥ एषणासमितिमाह
-
द्विचत्वारिंशता भिक्षादोषैर्नित्यमदूषितम् । मुनिर्यदन्नमादत्ते सैषणासमितिर्मता ॥ ३८ ॥
दाभ्यामधिका चत्वारिंशत् द्विचत्वारिंशद्भिक्षादोषाः उद्गमोत्पादनैषणालक्षणाः तत्रोद्गमदोषा गृहस्थप्रभवाः षोडश ।
'यद्यथा
`आहाकम्मुद्देसियपूइकम्मे
मौसजाए य ।
ठवणा पाहुडियाए पाउयरकीयपामिचे ॥ १ ॥
(१) मधुरं निपुणं स्तोकं कार्यापतितमगर्वितमतुच्छम् । पूर्वमतिसङ्कलितं भणन्ति यद्धर्मसंयुक्तम् ॥
(२) या च सत्या न वक्तव्या सत्यामृषा च या मृषा ।
या च बुद्धैरनाचीर्णा न तां भाषेत प्रज्ञावान् ॥ (३) धाकमद्देशिकपूतिकर्म च मिश्रजातं च । स्थापना प्राकृतिका प्रादुष्कारक्रीतप्रामित्यम् ॥