SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः। १३३ 'परिषष्टिए अभिहडे उब्भिसे मालोहडे इय। अच्छिज्जे अणिसट्टे अज्झोअरए य सोलसमे ॥ २ ॥ अाधाय विकल्पा यतिं मनसि कृत्वा सचित्तस्याचित्तीकरणमचित्तस्य वा पाको निरुतादाधाकर्म ॥ १ ॥ उद्देश: साध्वथं सङ्कल्पः स प्रयोजनमस्य प्रौद्देशिकं यत्पूर्वकत. मोदनमोदकक्षोदादि तत्साधूद्देशेन दध्यादिना गुडपाकेन च संस्कुर्वतो भवति ॥ २ ॥ आधाकम्भिकावयवसम्मियं शुद्धमपि यत्तत्पूतिकर्म शुचिद्रव्यमिवाशचिट्रव्यसम्मिश्रम् ॥ ३ ॥ यदात्माथें साध्वर्थ चादित एव मित्रं पश्यते तन्मित्रम् ॥ ४ ॥ साधुयाचितस्य क्षीरादेः पृथकृत्य स्वभाजने स्थापनं स्थापना ॥५॥ कालान्तरभाविनी विवाहादेरिदानों सन्निहिताः साधवः सन्ति तेषामप्युपयोगे भवविति बुद्धया इदानीमेव करणं समयपरिभाषया प्राभृतिका सविकष्टस्य विवाहादेः कालान्तरे साधुसमागमनं सञ्चिन्योत्कर्षणं वा ॥ ६ ॥ यदन्धकारयवस्थितस्य द्रव्यस्य वह्निप्रदीपमण्यादिना भित्त्यपनयनेन वा बहिनिष्कास्य द्रव्यधारणेन वा प्रकटकरणं तत्प्रादुकरणम् ॥ ७॥ यत्माव) मूल्येन कोयते तत्क्रीतम् ॥ ८॥ (१) परिवर्तितमभ्याहृतमुद्भिवं मालापहृतमिति । आच्छेद्यमनिसृष्टं अध्यवपूरकच षोडशः ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy