________________
योगशास्त्रे ततश्च गत्वा सन्ध्यायां कमारग्रामसन्निधौ । गिरीन्द्र इव निष्कम्पः कायोत्सर्ग व्यधाद्विभुः ॥ ६८ ॥ गोपालेनाथ यामिन्यां निष्कारण कतक्रुधा । उपद्रोतुं समारेभे भगवानात्मवैरिणा ॥ ७० ॥ अथेन्द्रेणावधिज्ञानाज्जज्ञे प्रभुमुपद्रवन् । स दुःशीलो महाशैलमाखुश्चेष निखत्रिव ॥ ७१ ॥ कल्याणीभक्तिरागाच्च शक्रः प्रभुपदान्तिकम् । नष्टो मत्कुणनाशं च स गोपहतकः क्वचित् ॥ ७२ ॥ तत: प्रदक्षिणीकृत्य निर्मुर्डी प्रणिपत्य च । ' इति विज्ञापयाञ्चक्रे प्रभुः प्राचीनबहिषा ॥ ७३ ॥ भविष्यति हादशाब्दान्युपसर्गपरम्परा। तां निषेधितुमिच्छामि भगवन् पारिपार्खिकः ॥ ७४ ॥ समाधि पारयित्वेन्द्रं भगवानूचिवानिति । नापेक्षाञ्चक्रिरेऽर्हन्तः परसाहायिक क्वचित् ॥ ७५ ॥ . ततो जगद्गुरुः शीतलेश्य: शीतमयूखवत् । तपस्तेजोदुरालोकोऽधिपतिस्तेजसामिव ॥ ७६ ॥ शौण्डीर्यवान् गज इव सुमेरुरिव निश्चलः । सर्वस्पर्शान् सहिष्णुश्च यथैव हि वसुन्धरा ॥ ७७ ॥ अम्भोधिरिव गम्भीरो मृगेन्द्र इव निर्भयः । मिथ्यादृशां दुरालोकः सुहुतो हव्यवाडिव ॥ ७८ ॥ खनिशृङ्गमिवैकाकी जातस्थामा महोक्षवत् । गुप्तेन्द्रियः कूर्म इवाहिरिवैकान्तदत्तदृक् ॥ ७० ॥