________________
प्रथमः प्रकाशः ।
निरञ्जनः शङ्ख इव जातरूपः सुवर्णवत् । विप्रमुक्तः खग इव जीव इवास्वलद्गतिः ॥ ८० ॥ व्योमेवानाश्रयो भारुण्डपक्षीवाप्रमद्दरः । अम्भोजिनौदलमिवोपलेपपरिवर्जितः ॥ ८१ ॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । इहामुत्र सुखे दुःखे भवे मोक्षे समाशयः ॥ ८२ ॥ निष्कारणैककारुण्य परायणमनस्तया । मज्जद्भवोदधौ मुग्धमुद्दिधीर्षुरिदं जगत् ॥ ८३ ॥ प्रभुः प्रभञ्जन इवाप्रतिबद्धोऽब्धिमेखलाम् । नानाग्रामपुरारण्या विजहार वसुन्धराम् ॥ ८४ ॥ देशं दक्षिणचावालमवाप्य प्रभुरन्यदा । श्वेतम्बों नगरौं गच्छन्नित्यूचे गोपदारकैः ॥ ८५ ॥ देवार्यांयमृजुः पन्थाः श्वेतम्बीमुपतिष्ठते । किन्त्वन्तरेऽस्य कनकखलाख्यस्तापसा श्रमः ॥ ८६ ॥ स हि दृग्विषसर्पेणाधिष्ठितो वर्त्ततेऽधुना । वायुमात्रैकसञ्चारोऽप्रचारः पक्षिणामपि ॥ ८७ ॥ विहाय तदमुं मार्ग वक्रेणाप्यमुना व्रज । सुवर्णेनापि किं तेन कर्णच्छेदो भवेद्यतः ॥ ८८ ॥ तं चाहिं प्रभुरज्ञासोद्यदसौ पूर्वजन्मनि । क्षपकः पारणकार्थं विहतुं वसतेरगात् ॥ ८६ ॥ गच्छता तेन मण्डूकौ पादपाताद्विराधिता । आलोचनार्थमेतस्य दर्शिता क्षुल्लकेन सा ॥ ८० ॥
११