________________
योगशास्त्र
सोऽथ प्रत्युतमण्डूकोर्दर्शयन् लोकमारिताः । जचे क्षुलं मया क्षुद्र किमता अपि मारिताः ॥ ८१ ॥ तूणीकोऽभूत्ततः क्षुल्लोऽमस्त चैवं विशुद्धधीः । महानुभावो यदसौ सायमालोचयिष्यति ॥ ८२ ॥ आवश्यकेऽप्यनालोच्य यावदेष निषेदिवान् । क्षुल्लकोऽचिन्तयत्तावविस्मृतास्य विराधना ॥ ८३ ॥ अस्मारयच्च तां भेकीमालोचयसि किं नहि। क्षफ्कोऽपि क्रुधोत्थाय क्षुल्लं हन्मोति धावित: ॥ ८४ ॥ कोपान्धश्च ततः स्तम्भे प्रतिफल्य व्यपद्यत । विराधितश्रामण्योऽसौ ज्योतिष्केषूदपद्यत ॥ ८५ ॥ स च्युत्वा कनकखले सहस्राईतपस्विनाम् । पत्युः कुलपतेः पत्नया: पुत्रोऽभूत्कौशिकाह्वयः ॥ ८६ ॥ तत्र कौशिकमोत्रत्वादासबन्केपि कौशिकाः । अत्यन्तकोपनत्वाच्च स ख्यातश्चण्डकौशिकः ॥ ८७ ॥ श्राद्धदेवातिथित्वं च तस्मिन् कुलपतौ गते । असौ कुलपतिस्तत्र तापसानामजायत । ८८ ॥ मूर्च्छया वनखण्डस्य सोऽन्तर्धाम्यवहर्निशम् । अदाल्कस्यापि नादातुं पुष्पं मूलं फलं दलम् ॥ ८ ॥ विशीर्णमपि योऽग्टह्लादने तत्र फलादिकम् । उत्पाद्य परशुं यष्टिं लोष्टं वा तं जघान सः ॥ १० ॥ फलाद्यलभमानास्तु सीदन्तस्ते तपखिनः । पतिते लगुडे काका इव जम्मुर्दिशोदिशम् ॥ १ ॥