SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ १४ योगशास्त्रे भ्रमन् सोऽनुवनं रेणुसंक्रामद्भोगलेखया । खानालेखामिव लिखन्त्रीक्षाञ्चके जगद्गुरुम् ॥ १३ ॥ अन मां किमविज्ञाय किमवज्ञाय कोऽप्यसौ। शः प्रविष्टो निराशझं निष्कम्मः शङ्खवत् स्थितः ॥ १४ ॥ तदेनं भस्मसादद्य करोमोति विचिन्तयन् । आभायमानं कोपेन फटाटोपं चकार सः ॥ १५ ॥ ज्वालामालामुद्दमन्त्या निर्दहन्त्या लताद्रुमान् । भगवन्तं दृशापश्यत्स्फारफत्कारदारुणः ॥ १६ ॥ दृष्टिज्वालास्ततस्तस्य ज्वलन्यो भगवत्तनौ। विनिपेतुर्दुरालोका उल्का इव दिवो गिरौ ॥ १७ ॥ प्रभोर्महाप्रभावस्य प्रभवन्ति स्म नैव ताः। । महानपि मरुन्मेरं किं कम्पयितुमीखरः ॥ १८ ॥ दारुदाहं न दग्धोऽसावद्यापीति क्रुधा ज्वलन् । दर्श दर्श दिनकरं दृग्ज्वालाः सोऽमुचत्पुनः ॥ १८ ॥ सम्पन्नासु प्रभौ वारिधाराप्रायासु तास्वपि । ददंश दन्दशूकोऽसौ निःशूकः पादपङ्कजे ॥ २० ॥ दष्ट्वा दष्ट्वापचक्राम स्खविषोद्रेकदुर्मदः । यत्पतन्महिषाक्रान्तो रह्रौयादेष मामपि ॥ २१ ॥ दशतोऽप्यसकृत्तस्य न विषं प्राभवत्प्रभो। गोक्षीरधाराधवलं केवलं रक्तमक्षरत् ॥ २२ ॥ ततश्च पुरतः स्थित्वा किमेतदिति चिन्तयन् । वीक्षाञ्चके जगन्नाथं वीक्षापत्रः स पन्नगः ॥ २३ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy