________________
प्रथमः प्रकाशः ।
सतो निरूप्य रूपं तदनुरूपं जगहुरोः । कान्तिसौम्यतया मच विध्याते तहिलोचने ॥ २४ ॥ उपसन्नं च तं ज्ञात्वा बभाष भगवानिति । चण्डकौशिक बुद्धास्व बुद्धास्व ननु मामुहः ॥ २५ ॥ श्रुत्वा तद्भगवदाक्यमूहापोहं वितन्वतः । पचगस्य समुत्पेदे स्मरणं पूर्वजन्मनाम् ॥ २६ ॥ स त्रिः प्रदक्षिणीकृत्य ततश्च परमेश्वरम् । निष्कषायः सुमनसाऽनशनं प्रत्यपद्यत ॥ २७ ॥ कतानशनकम्माणं निष्कणिं महोरगम् । प्रशमापनमज्ञासीदन्वज्ञासौच्च तं प्रभुः ॥ २८ ॥ कुत्राप्यन्यत्र मा यासीढष्टिमें विषभीषणा । इति तुण्डं बिले क्षिप्त्वा पपौ स ममतामृतम् ॥ २८ ॥ तस्थौ तथैव तत्रैव स्वामी तदनुकम्पया। परेषामुपकाराय महतां हि प्रवृत्तयः ॥ ३० ॥ भगवन्तं तथा दृष्ट्वा विस्मयस्मेरलोचनाः । गोपाला वसपालाश्च तत्रोपसम्पुर्दुतम् ॥ ३१ ॥ वृक्षान्तरे तिरोभूय यथेष्टं ग्रावलोष्टुभिः । प्रणिजघ्नुरनिनास्ते पन्नगस्य महात्मनः ॥ ३२ ॥ तथाप्यविचलन्तं तं वीक्ष्य विशम्भभाजिनः । यष्टिभिर्घयामासुनिकटीभूय तत्तनुम् ॥ ३३ ॥ आख्यन् जनानां ते गोपास्ततस्तत्रागमन् जनाः ।। ववन्दिरे महावीरममहंश्च महोरगम् ॥ ३४ ॥