SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ५४ - योगशास्त्रे इत्यासीन्मनसा यावद्विभुर्भवपराङ्मुखः । तावल्लोकान्तिका देवा एयुः सारस्वतादयः ॥ २२ ॥ बङ्घरञ्जलिभिमूनि कृतान्यमुकुटा इव । प्रणम्य ते व्यज्ञपयन् स्वामिस्तीर्थं प्रवर्त्तय ॥ २३ ॥ गतेषु तेषु भगवानुद्यानावन्दनाभिधात् । व्यावृत्त्य गत्वा नगरीमाजुहावावनीपतीन् ॥ २४ ॥ राज्येऽभ्यषिञ्चद्भरतं ज्येष्ठपुत्रं ततो विभुः। बाहुबल्यादिपुत्राणां विभज्य विषयान् ददौ ॥ २५ ॥ सांवत्सरिकदानेन ततोऽतीत्तथा भुवम् । !' देहीति दीनवाक्यश्च कश्चिदासौद्यथा नहि ॥ २६ ॥ अथासनप्रकम्पेन सर्वेऽप्यभ्येत्य वासवाः । अभिषेकं प्रभोश्चऋगिररिव पयोमुचः ॥ २० ॥ माल्याङ्गरागैर्देवेशन्यस्तैर्वासितविष्टपैः । खयशोभिरिवाशोभि परितः परमेश्वरः ॥ २८ ॥ विचित्रैरर्चितो वस्त्रैरत्नलप्तश्च भूषणैः । विभुर्बभासे सध्यावधिष्णैरिव मरुत्पथः ॥ २८ ॥ दिवि दुन्दुभिनादं च कारयामास वासवः । जगतो दददानन्दमसन्मान्तमिवात्मनि ॥ ३० ॥ सुरासुरनरोहाह्यामारोहच्छिबिकां विभुः । अईलोकगतर्मागं जगतो दर्शयविव ॥ ३१ ॥ एवं सदेवैर्देवेशैश्चक्रे निष्क्रमणोत्सवः । यं पश्यद्भिर्निजदृशां नैनिमेष्यं कृतार्थितम् ॥ ३२ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy