________________
प्रथमः प्रकाश: ।
गत्वा सिद्धार्थकोद्याने मुमोच परमेखरः। कुसुमाभरणादीनि कषायानिव सर्वतः ॥ ३३ ॥ चतुर्भिसृष्टिभिः केशानुद्दधार जगद्गुरुः । जिचक्षुः पञ्चमी मुष्टिं वासवेनेति याचितः ॥ ३४ ॥ देवांसयोः स्वर्णरुचोर्वाचातीतातिशोभते । केशवजयंसावास्तामिति तां स्वाम्यधारयत् ॥ ३५ ॥ प्रतीच्छतश्च सौधर्माधिपतेः सिचयाचले। खामिकेशा दधुर्दत्तवर्णान्तरगुणश्रियम् ॥ ३६ ॥ क्षीरोदधौ सुधर्मेश: केशान् क्षिप्वाभ्युपेत्य च। रङ्गाचार्य इवारक्षत्तुमुलं मुष्टिसंनया ॥ ३७॥ । सर्व सावधं प्रत्याख्यामीति चारित्रमुच्चकैः । मोक्षाध्वमो रथमिवाध्यारुरोह जगत्पतिः ॥ ३८ ॥ सर्वतः सर्वजन्तूनां मनोद्रव्याणि दर्शयत् । जझे ज्ञानं प्रभोस्तुयं मनःपर्यायसंज्ञकम् ॥ ३८ ॥... राज्ञां सहस्राथत्वारोऽनुयान्तस्तं निजप्रभुम् । ... व्रतमाददिर भक्त्या कुलीनानां क्रमो यसौ ॥.४० ॥ ततः सर्वेष्वपीन्द्रेषु गतेषु खं स्वमालयम् । .. व्यहरत्तैर्वृत्तः स्वामी यूथनाथ इव हिपैः ॥ ४१ ॥ लोकैर्भिक्षास्वरूपा भिक्षाभ्रमतः प्रभोः । अटौकि कन्येभावादि धिगाजवमपि क्वचित् ॥ ४२ ॥ न्याय्यामप्राप्नुवन् भिक्षा सहमान: परीषहान् । अदीनमानसः स्वामी मौनव्रतमुपाश्रितः ॥ ४३ ॥