________________
· · योगशास्त्रे श्रमणानां सहस्रेस्तैश्चतुर्भिरपि नाभिभूः । सुधार्तेर्मुमुचे को वा 'ससत्त्वो भगवानिव ॥ ४४ ॥ वने मूलफलाहारा जजिरे ते तु तापसाः । भवाटवीपथजुषो धिक्तान्मोक्षपथच्युतान् ॥ ४५ ॥ पथ कच्छमहाकच्छपुनावाजागती कचित् । ईयतुर्नमिविनमी स्वामिनं प्रतिमास्थितम् ॥ ४६ ॥ प्रणम्य तो विज्ञपयाम्बभूवतरिति प्रभुम् । पावयो परः स्वामी स्वामिन् राज्यप्रदो भव ॥ ४७ ॥ न किञ्चिदूचे भगवांस्तदा तौ सेवकावपि । निर्ममा हि न लिप्यन्ते कस्याप्यहिकचिन्तया ॥ ४८ ॥ तो कष्टासी सिषेवाते स्वामिनं पारिपार्खिको। अहर्निशं मेरुगिरिं सूर्याचन्द्रमसाविव ॥ ४८ ॥ .. मथ तो धरणन्द्रेण प्रभु वन्दितुमयुषा । को युवामिह को हेतुरित्युक्तावेवमूचतुः ॥ ५० ॥ भृत्यावावामसी भर्ता कचिदप्यादिदेश च । राज्यं विभज्य सर्वेषां स्वपुत्राणामदत्त च ॥ ५१ ॥ पपि प्रदत्तसर्वखो दातासो राज्यमावयोः । अस्ति नास्तीति का चिन्ता कार्या सेवेव सेवकैः ॥ ५२ ॥ याचेयां भरतं स्वामी निर्ममो निष्परिग्रहः । किमद्य दद्यादिति तो तेनोलावित्यवोचताम् ॥ ५३ ॥
(१) ख ग च सत्यवान्।