________________
प्रथमः प्रकाशः।
विश्वस्वामिनमाप्यामुं कुर्वः खाम्यन्तरं नहि । कल्पपादपमासाद्य कः करोरं निषेवते ॥ ५४॥ . पावां याचावहे नान्यं विहाय परमेखरम् । . पयोमुचं विमुच्चान्यं याचते चातकोऽपि किम् ॥ ५५ ॥
वस्त्यस्तु भरतादिभ्यः किं तवास्मद्विचिन्तया। . . खामिनोऽस्माद्यद्भवति तद्भवत्वपरण किम् ॥ ५६ ॥ सदुक्तिमुदितोऽवादीदथेदं पबगेखरः । पातालपतिरषोऽस्मि स्वामिनोऽस्यैव किङ्करः ॥ ५७ ॥ सेव्यः स्वाम्पयमेवेति प्रतिज्ञा साधु साधु वः । .:: खामिसेवाफलं विद्याधरैखयं ददामि तत् । ५८ ॥ खामिसेवाप्तमेवैतध्येथां हन्त नान्यथा। सम्बोध्येति ददौ विद्याः प्राप्तीप्रमुखास्तयोः ॥ ५८ ॥ ईयतुस्तदनुज्ञातौ पञ्चाशद्योजनौपथम् । तो वैताब्याट्रिमुत्सेधं पञ्चविंशतियोजनम् ॥ ६० ॥ दशयोजनविस्तारदक्षिणश्रेणिमध्यगाः । .... तत्र विद्याबलाचक्रे नमिः पञ्चाशतं पुरोः ॥ ६१ ॥ दशयोजनविस्तारोत्तरश्रेण्या न्यवौविशत्। विद्याधरपतिः षष्टिं पुराणि विनमिः पुनः ॥ ३२ ॥ चक्राते चक्रवर्तित्वं 'चिराद विद्याधरेषु तौ। तादृशः खामिसेवायाः किं नाम स्याद्दरासदम् ॥ ६३ ॥
(१) ख मच चिरम ।